|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.181. अध्यायः 181
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कीटेन व्यासचोदनया राज्यपालनपूर्वकं जन्मान्तरे ब्राह्मण्यलाभेन तपश्चर्यादिना ब्रह्मसालोक्याधिगमः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान्।
त्यक्त्वा हि कीटतां राजंश्चचार विपुलं तपः॥ 13-181-1(88654)
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः।
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा॥ 13-181-2(88655)
व्यास उवाच। 13-181-3x(7391)
क्षात्रादेव व्रतात्कीट भूतानां परिपालय।
क्षात्रं देवव्रतं ध्यासंस्ततो विप्रत्वमेष्यसि॥ 13-181-3(88656)
पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान्।
शुभैः संविभजन्कामैरशुभानां च भावनैः॥ 13-181-4(88657)
आत्मवान्भव सुप्रीतः स्वधर्माचरणे रतः।
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि॥ 13-181-5(88658)
भीष्म उवाच। 13-181-6x(7392)
सोऽप्यरण्यादभिप्रेत्य पुनरेव युधिष्ठिर।
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पालयन्॥ 13-181-6(88659)
अचिरेणैव कालेन कीटः पार्थिवसत्तम।
प्रजापालनधर्मेणि प्रेत्य विप्रत्वमागतः॥ 13-181-7(88660)
ततस्तं ब्राह्मणं द्रष्टुं पुनरेव महायशाः।
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा॥ 13-181-8(88661)
व्यास उवाच। 13-181-9x(7393)
भोभो ब्रह्मर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु॥ 13-181-9(88662)
उपपद्यति धर्मज्ञ यथाधर्मं यथाव्रतम्।
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन।
धर्मलाभात्परं न स्यात्तस्माद्धर्मं चरोत्तमम्॥ 13-181-10(88663)
कीट उवाच। 13-181-11x(7394)
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम्।
धर्ममूलं शुभं प्राप्य पाप्मा नष्ट इहाद्य मे॥ 13-181-11(88664)
भीष्म उवाच। 13-181-12x(7395)
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम्।
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम्।
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः॥ 13-181-12(88665)
अथ पापहरं कीटः पार्त ब्रह्म सनातनम्।
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा॥ 13-181-13(88666)
कुरुक्षेत्रे युद्धहताः पुण्ये क्षत्रियपुङ्गवाः।
सम्प्राप्तास्ते गतिं पुण्यां तन्मा त्वं शोच पुत्रक॥ ॥ 13-181-14(88667)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः॥ 181 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|